वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१००५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥१००५॥

मन्त्र उच्चारण
पद पाठ

स्वा꣣दोः꣢ । इ꣣त्था꣢ । वि꣣षूव꣡तः꣢ । वि꣣ । सूव꣡तः꣢ । म꣡धोः꣢꣯ । पि꣣बन्ति । गौर्यः꣢ । याः । इ꣡न्द्रे꣢꣯ण । स꣣या꣡व꣢रीः । स꣣ । या꣡व꣢꣯रीः । वृ꣡ष्णा꣢꣯ । म꣡द꣢꣯न्ति । शो꣣भ꣡था꣢ । व꣡स्वीः꣢꣯ । अ꣡नु꣢꣯ । स्व꣣रा꣡ज्य꣢म् । स्व꣣ । रा꣡ज्य꣢꣯म् ॥१००५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1005 | (कौथोम) 3 » 2 » 15 » 1 | (रानायाणीय) 6 » 5 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में ४०९ क्रमाङ्क पर आत्मिक तथा राष्ट्रिय स्वराज्य के विषय में व्याख्या की जा चुकी है। यहाँ सूर्य के स्वराज्य का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(गौर्यः) चमकीली सूर्यकिरणें (इत्था) सचमुच (वि-सुवतः) विशेषरूप से भूमि पर बरसते हुए बादल के (स्वादोः) स्वादु (मधोः) मधुर जल का (पिबन्ति) पान करती हैं, (याः) जो सूर्यकिरणें (वृष्णा) वर्षा करनेवाले (इन्द्रेण) सूर्य की (सयावरीः) सहगामिनी होती हुई (शोभथा) शोभन प्रकार से (मदन्ति) आनन्दित करती हैं। (वस्वीः) निवासक वे किरणें (स्वराज्यम्) सूर्य के स्वराज्य के (अनु) अनुकूल चलती हैं ॥१॥

भावार्थभाषाः -

अहो, सूर्य का स्वराज्य कैसा दर्शनीय है ! किस प्रकार सूर्य-किरणें निर्बाध होकर मेघ से बरसाये हुए नदी, नद, समुद्र आदि में व्याप्त जल को पीकर, पुनः बादल बनाकर फिर मेघ-जल को भूमि पर बरसा देती हैं। वैसे ही हमें भी चाहिए कि हम भी आन्तरिक स्वराज्य तथा अपने राष्ट्र के स्वराज्य की अर्चना करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४०९ क्रमाङ्के आत्मिकस्य राष्ट्रियस्य च स्वराज्यस्य विषये व्याख्याता। अत्र सूर्यस्य स्वराज्यं वर्ण्यते।

पदार्थान्वयभाषाः -

(गौर्यः) रोचमानाः सूर्यदीधितयः। [गौरी रोचतेर्ज्वलतिकर्मणः। निरु० ११।३९।] (इत्था) सत्यम् (वि-सुवतः) विशेषेण भूमौ वर्षतः पर्जन्यस्य (स्वादोः) उत्कृष्टस्वादवतः (मधोः) मधुरस्य उदकस्य। [द्वितीयार्थे षष्ठी।] (पिबन्ति) पानं कुर्वन्ति, (याः) सूर्यदीधितयः (वृष्णा) वर्षकेण (इन्द्रेण) सूर्येण (सयावरीः) सयावर्यः, सह वर्तमानाः सत्यः (शोभया) शोभनप्रकारेण (मदन्ति) मदयन्ति। [मदी हर्षग्लेपनयोः भ्वादिः, णिज्गर्भः।] (वस्वीः) वस्व्यः निवासयित्र्यः ताः (स्वराज्यम्) सूर्यस्य स्वकीयं साम्राज्यम् (अनु) अनुसरन्ति। [उपसर्गबलाद् योग्यक्रियाध्याहारः] ॥१॥२

भावार्थभाषाः -

अहो, दर्शनीयं सूर्यस्य स्वराज्यम्। कथं सूर्यरश्मयो निर्बाधाः सन्तो मेघाभिवृष्टं नदीनदसमुद्रादिषु व्याप्तं पयः पीत्वा पुनर्मेघान् निर्माय पुनरप्युदकं भूमौ वर्षन्ति। तथैवास्माभिरप्यन्तःस्वराज्यं राष्ट्रस्य च स्वराज्यमर्चनीयम् ॥१॥

टिप्पणी: १. ऋ० १।८४।१०, अथ० २०।१०९।१, उभयत्र ‘मधोः’, ‘शोभथा’ इत्यत्र ‘मध्वः॑’, ‘शो॒भसे॒’ इति पाठः। साम० ४०९। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘नहि स्वसेनापतिभिर्वीरसेनाभिश्च विना स्वराज्यस्य शोभारक्षणे भवितुं शक्ये’ इति विषये व्याख्यातवान्।